अमरकोशः


श्लोकः

वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्णं तु चाक्षरे । अरुणो भास्करेऽपि स्याद्वर्णभेदेऽपि च त्रिषु ॥ ४८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वर्ण वर्णः पुंलिङ्गः, नपुंसकलिङ्गः वर्ण्यते घञ् कृत् अकारान्तः
2 अरुण अरुणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ऋच्छति उनन् उणादिः अकारान्तः