अमरकोशः


श्लोकः

बालपाश्या पारितथ्या पत्त्रपाश्या ललाटिका । कर्णिका तालपत्रं स्यात्कुण्डलं कर्णवेष्टनम् ॥ १०३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 बालपाश्या बालपाश्या स्त्रीलिङ्गः बालपाशे केशसमूहे साधुः । यत् तद्धितः आकारान्तः
2 पारितथ्या पारितथ्या स्त्रीलिङ्गः परितस्तथाभूताः । ष्यञ् तद्धितः आकारान्तः
3 पत्रपाश्या पत्रपाश्या स्त्रीलिङ्गः पाशसमूहः पाश्या पत्त्रमिव पाश्या ॥ तत्पुरुषः समासः आकारान्तः
4 ललाटिका ललाटिका स्त्रीलिङ्गः ललाटस्यालङ्कारः । कन् तद्धितः आकारान्तः
5 कर्णिका कर्णिका स्त्रीलिङ्गः कर्णस्यालङ्कारः । कन् तद्धितः आकारान्तः
6 तालपत्र तालपत्रम् नपुंसकलिङ्गः तालस्य पत्त्रम् । तत्पुरुषः समासः अकारान्तः
7 कुण्डल कुण्डलम् नपुंसकलिङ्गः कुण्डते, कुण्ड्यते, वा । कल उणादिः अकारान्तः
8 कर्नवेष्टन कर्नवेष्टनम् नपुंसकलिङ्गः कर्णस्य वेष्टनम् । तत्पुरुषः समासः अकारान्तः