अमरकोशः


श्लोकः

सुप्रलापः सुवचनमपलापस्तु निह्नवः । संदेशवाग्वाचिकं स्याद् वाग्भेदास्तु त्रिषूत्तरे ॥ १७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सुप्रलाप सुप्रलापः पुंलिङ्गः सुष्टु प्रकृष्टं लपनम् । घञ् कृत् अकारान्तः
2 सुवचन सुवचनम् नपुंसकलिङ्गः अकारान्तः
3 अपलाप अपलापः पुंलिङ्गः अपलपनम् । घञ् कॄदन्तः अकारान्तः
4 निह्नव निह्नवः पुंलिङ्गः निह्नवनम् । अप् कॄदन्तः अकारान्तः
5 संदेशवाच् संदेशवाक् स्त्रीलिङ्गः संदेशोऽर्थः। तस्य वाक् ॥ घञ् कॄदन्तः चकारान्तः
6 वाचिक वाचिकम् नपुंसकलिङ्गः संदिष्टोऽर्थो ययोच्यते सा वाचिकम् । ठक् तद्धित अकारान्तः