अमरकोशः


श्लोकः

त्रिष्वागोष्ठान्नडप्राये नड्वान्नड्वल इत्यपि । कुमुद्वान्कुमुदप्राये वेतस्वान्बहुवेतसे ॥ ९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 नड्वत् नड्वान् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नडाः प्राया यत्र । ड्मतुप् तद्धितः तकारान्तः
2 नड्वल नड्वलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नडाः सन्त्यस्मिन् । ड्वलच् तद्धितः अकारान्तः
3 कुमुद्वत् कुमुद्वान् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कुमुदानि सन्त्यत्र । ड्मतुप् तद्धितः तकारान्तः
4 वेतस्वत् वेतस्वान् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वेतसाः सन्त्यत्र । ड्मतुप् तद्धितः तकारान्तः