अमरकोशः


श्लोकः

बलभद्रः प्रलम्बघ्नो बलदेवोऽच्युताग्रजः । रेवतीरमणो रामः कामपालो हलायुधः ॥ २३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 बलभद्र बलभद्रः पुंलिङ्गः बलं भद्रं श्रेष्ठमस्य । बहुव्रीहिः समासः अकारान्तः
2 प्रलम्बघ्न प्रलम्बघ्नः पुंलिङ्गः प्रलम्बं हतवान् । तत्पुरुषः समासः अकारान्तः
3 बलदेव बलदेवः पुंलिङ्गः बलेन दीव्यति । तत्पुरुषः समासः अकारान्तः
4 अच्युताग्रज अच्युताग्रजः पुंलिङ्गः अच्युतस्याग्रजः । तत्पुरुषः समासः अकारान्तः
5 रेवतीरमण रेवतीरमणः पुंलिङ्गः रेवत्या रमणः । तत्पुरुषः समासः अकारान्तः
6 राम रामः पुंलिङ्गः रमते । कृत् अकारान्तः
7 कामपाल कामपालः पुंलिङ्गः कामान् पालयति । अण् कृत् अकारान्तः
8 हलायुध हलायुधः पुंलिङ्गः हलमायुधं यस्य । बहुव्रीहिः समासः अकारान्तः