अमरकोशः


श्लोकः

कालो दिष्टोऽप्यनेहापि समयोऽप्यथ पक्षतिः । प्रतिपद् द्वे इमे स्त्रीत्वे तदाद्यास्तिथयो द्वयोः ॥ १ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 काल कालः पुंलिङ्गः कल्यते । घञ् कृत् अकारान्तः
2 दिष्ट दिष्टः पुंलिङ्गः दिशति । क्त कृत् अकारान्तः
3 अनेहस् अनेहाः पुंलिङ्गः नाहन्ति नागच्छति, नाहन्यते, इति वा । असुन् उणादिः सकारान्तः
4 समय समयः पुंलिङ्गः सम्यग् एति । अच् कृत् अकारान्तः
5 पक्षति पक्षतिः स्त्रीलिङ्गः पक्षस्य मूलम् । ति तद्धितः इकारान्तः
6 प्रतिपत् प्रतिपद् स्त्रीलिङ्गः प्रतिपद्यते उपक्रम्यतेऽनया मासादिः । तत्पुरुषः समासः तकारान्तः
7 तिथि तिथिः पुंलिङ्गः, स्त्रीलिङ्गः तदाद्या इति । इथन् उणादिः इकारान्तः