अमरकोशः


श्लोकः

भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम् । शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च ॥ २६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 भावुक भावुकम् नपुंसकलिङ्गः भवनशीलम् । उकञ् कृत् अकारान्तः
2 भविक भविकम् नपुंसकलिङ्गः भवो भद्राप्तिरत्रास्ति । ठन् तद्धितः अकारान्तः
3 भव्य भव्यम् नपुंसकलिङ्गः भवति । यत् कृत् अकारान्तः
4 कुशल कुशलम् नपुंसकलिङ्गः कुत्सितं शलते संवृणोति । अच् कृत् अकारान्तः
5 क्षेम क्षेमम् पुंलिङ्गः, नपुंसकलिङ्गः क्षयत्यशुभम् । मन् उणादिः अकारान्तः
6 शस्त शस्तम् नपुंसकलिङ्गः शस्यते स्म । क्त कृत् अकारान्तः