अमरकोशः


श्लोकः

सांवत्सरो ज्यौतिषिको दैवज्ञगणकावपि । स्युर्मौहूर्तिकमौहूर्तज्ञानिकार्तान्तिका अपि ॥ १४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सांवत्सर सांवत्सरः पुंलिङ्गः संवत्सरं वेत्ति । अण् तद्धितः अकारान्तः
2 ज्यौतिषिक ज्यौतिषिकः पुंलिङ्गः ज्योतिर्नक्षत्राद्यधिकृत्य कृतो ग्रन्थः । अण् तद्धितः अकारान्तः
3 दैवज्ञ दैवज्ञः पुंलिङ्गः दैवं प्राक्कृतं शुभाशुभं कर्म जानाति । कृत् अकारान्तः
4 गणक गणकः पुंलिङ्गः गणयति । ण्वुल् कृत् अकारान्तः
5 मौहूर्तिक मौहूर्तिकः पुंलिङ्गः मुहूर्तम् (अधिकृत्य कृतं ग्रन्थम्) अधीते । अण् तद्धितः अकारान्तः
6 मौहूर्त मौहूर्तः पुंलिङ्गः अकारान्तः
7 ज्ञानिन् ज्ञानी पुंलिङ्गः ज्ञानमस्यास्ति । इनि तद्धितः नकारान्तः
8 कार्तान्तिक कार्तान्तिकः पुंलिङ्गः कृतान्तं वेति । ठक् तद्धितः अकारान्तः