अमरकोशः


श्लोकः

सुचेलकः पटोऽस्त्री ना वराशि: स्थूलशाटकः । निचोलः प्रच्छदपटः समौ रल्लककम्बलौ ॥ ११६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सुचेलक सुचेलकः पुंलिङ्गः शोभनं चेलमेव । कन् तद्धितः अकारान्तः
2 पट पटः पुंलिङ्गः, नपुंसकलिङ्गः पटति । अच् कृत् अकारान्तः
3 वराशि वराशिः पुंलिङ्गः, नपुंसकलिङ्गः वरं श्रेष्ठं वरणं वा अश्नुते । इन् उणादिः इकारान्तः
4 स्थूलशाटक स्थूलशाटकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शटती । तत्पुरुषः समासः अकारान्तः
5 निचोल निचोलः पुंलिङ्गः निचोल्यते । घञ् कृत् अकारान्तः
6 प्रच्छदपट प्रच्छदपटः पुंलिङ्गः प्रच्छदति । अच् कृत् अकारान्तः
7 रल्लक रल्लकः पुंलिङ्गः रत् चासौ लश्च । तत्पुरुषः समासः अकारान्तः
8 कम्बल कम्बलः पुंलिङ्गः कम्बति, कम्ब्यते, वा । कलच् उणादिः अकारान्तः