अमरकोशः


श्लोकः

निशाह्वा काञ्चनी पीता हरिद्रा वरवर्णिनी । सामुद्रं यत्तु लवणमक्षीवं वसिरं च तत् ॥ ४१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 निशाह्वा निशाह्वा स्त्रीलिङ्गः निशा आह्ना यस्याः । बहुव्रीहिः समासः आकारान्तः
2 काञ्चनी काञ्चनी स्त्रीलिङ्गः काञ्चतेऽनया । ल्युट् कृत् ईकारान्तः
3 पीता पीता स्त्रीलिङ्गः पीयते स्म । क्त कृत् आकारान्तः
4 हरिद्रा हरिद्रा स्त्रीलिङ्गः हरिं वर्णं द्राति । कृत् आकारान्तः
5 वरवर्णिनी वरवर्णिनी स्त्रीलिङ्गः वरश्वासौ वर्णश्च । सोऽस्त्यस्याः । इनि तद्धितः ईकारान्तः
6 सामुद्र सामुद्रम् नपुंसकलिङ्गः अकारान्तः
7 लवण लवणम् नपुंसकलिङ्गः अकारान्तः
8 अक्षीव अक्षीवम् नपुंसकलिङ्गः अक्षीं वाति, वायति, वा । कृत् अकारान्तः
9 वसिर वसिरम् नपुंसकलिङ्गः वसनम् । इन् उणादिः अकारान्तः