अमरकोशः


श्लोकः

आपक्वं पौलिरभ्यूषो लाजाः पुम्भूम्नि चाक्षताः । पृथुक: स्याच्चिपिटकः धाना भृष्टयवे स्त्रियः ॥ ४७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आपक्व आपक्वम् नपुंसकलिङ्गः ईषत्पक्वम् । तत्पुरुषः समासः अकारान्तः
2 पौलि पौलिः पुंलिङ्गः पोलति । इञ् तद्धितः इकारान्तः
3 अभ्यूष अभ्यूषः पुंलिङ्गः अभ्यूषति । कृत् अकारान्तः
4 लाज लाजः पुंलिङ्गः लज्यन्ते । घञ् कृत् अकारान्तः
5 अक्षत अक्षतः पुंलिङ्गः, नपुंसकलिङ्गः न क्षतं येषां ते । तत्पुरुषः समासः अकारान्तः
6 पृथुक पृथुकः पुंलिङ्गः प्रथते । कुकन् उणादिः अकारान्तः
7 चिपिटक चिपिटकः पुंलिङ्गः चिपिटमिव । पिटच् तद्धितः अकारान्तः
8 धाना धाना स्त्रीलिङ्गः दधति । उणादिः आकारान्तः
9 भृष्टयव भृष्टयवः स्त्रीलिङ्गः भ्रष्टश्चासौ यवश्च ॥ तत्पुरुषः समासः अकारान्तः