अमरकोशः


श्लोकः

मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः । मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम् ॥ ६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ज्ञान ज्ञानम् नपुंसकलिङ्गः मोक्षफलिका धीर्ज्ञानम् । ल्युट् कृत् अकारान्तः
2 विज्ञान विज्ञानम् नपुंसकलिङ्गः अन्यफलिका शिल्पे शास्त्रे च या धीः सा विज्ञानम् । ल्युट् कृत् अकारान्तः
3 मुक्ति मुक्तिः स्त्रीलिङ्गः मोचनम् । क्तिन् कृत् इकारान्तः
4 कैवल्य कैवल्यम् नपुंसकलिङ्गः बन्धविरहात्केवलस्य भावः । ष्यञ् तद्धितः अकारान्तः
5 निर्वाण निर्वाम् नपुंसकलिङ्गः निर्वान्त्यत्र । क्तः कृत् अकारान्तः
6 श्रेयस् श्रेयः नपुंसकलिङ्गः अतिशयेन प्रशस्यं श्रेयः । ईयसुन् तद्धितः सकारान्तः
7 नि:श्रेयस नि:श्रेयसम् नपुंसकलिङ्गः नितरां श्रेयः निःश्रेयसम् । अकारान्तः
8 अमृत अमृतम् नपुंसकलिङ्गः अविद्यमानं मृतं मरणमत्र । बहुव्रीहिः समासः अकारान्तः