अमरकोशः


श्लोकः

गोकण्टको गोक्षुरको वनशृङ्गाट इत्यपि । विश्वा विषा प्रतिविषातिविषोपविषारुणा ॥ ९९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गोकण्टक गोकण्टकः पुंलिङ्गः गोर्धेनोः पृथिव्या वा कण्टकः । तत्पुरुषः समासः अकारान्तः
2 गोक्षुरक गोक्षुरकः पुंलिङ्गः क्षुरति । तत्पुरुषः समासः अकारान्तः
3 वनशृङ्गाट वनशृङ्गाटः पुंलिङ्गः वनस्य शृङ्गाट इव । तत्पुरुषः समासः अकारान्तः
4 विश्वा विश्वा स्त्रीलिङ्गः विशति । क्वन् उणादिः आकारान्तः
5 विषा विषा स्त्रीलिङ्गः वेवेष्टि । कृत् आकारान्तः
6 प्रतिविषा प्रतिविषा स्त्रीलिङ्गः प्रतीपं विषमस्याः ॥ बहुव्रीहिः समासः आकारान्तः
7 अतिविषा अतिविषा स्त्रीलिङ्गः विषमतिक्रान्ता ॥ अव्ययीभावः समासः आकारान्तः
8 उपविषा उपविषा स्त्रीलिङ्गः विषमुपगता ॥ अव्ययीभावः समासः आकारान्तः
9 अरुणा अरुणा स्त्रीलिङ्गः अरुणो वर्णोऽस्याः । आकारान्तः