अमरकोशः


श्लोकः

आनाहस्तु विबन्ध: स्याद् ग्रहणी रुक् प्रवाहिका । प्रच्छर्दिका वमिश्च स्त्री पुमांस्तु वमथुः समाः ॥ ५५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आनाह आनाहः पुंलिङ्गः आनहनम् । घञ् कृत् अकारान्तः
2 विबन्ध विबन्धः पुंलिङ्गः विबन्धनम् । घञ् कृत् अकारान्तः
3 ग्रहणीरुज् ग्रहणीरुज् स्त्रीलिङ्गः गृह्णाति जठराग्निम् । ल्युट् कृत् जकारान्तः
4 प्रवाहिका प्रवाहिका स्त्रीलिङ्गः प्रवहति । ण्वुल् कृत् आकारान्तः
5 प्रच्छर्दिका प्रच्छर्दिका स्त्रीलिङ्गः प्रच्छर्दनम् । ण्वुल् कृत् आकारान्तः
6 वमि वमिः स्त्रीलिङ्गः वमनम् । इक् कृत् इकारान्तः
7 वमथु वमथुः पुंलिङ्गः अथुच् कृत् उकारान्तः