अमरकोशः


श्लोकः

कर्करेटुः करेटुः स्यात् कृकणक्रकरौ समौ । वनप्रियः परभृतः कोकिल: पिक इत्यपि ॥ १९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कर्करेटु कर्करेटुः पुंलिङ्गः, स्त्रीलिङ्गः ‘कर्क' इति रेटति । कु उणादिः उकारान्तः
2 करेटु करेटुः पुंलिङ्गः के वायौ जले वा रेटति । कु उणादिः उकारान्तः
3 कृकण कृकणः पुंलिङ्गः 'कृ' इति कणति । अच् कृत् अकारान्तः
4 क्रकर क्रकरः पुंलिङ्गः ‘क्र' इति शब्दकरणशीलः । कृत् अकारान्तः
5 वनप्रिय वनप्रियः पुंलिङ्गः वनं प्रियमस्य ॥ बहुव्रीहिः समासः अकारान्तः
6 परभृत परभृतः पुंलिङ्गः परेण काकेन भृतः ॥ तत्पुरुषः समासः अकारान्तः
7 कोकिल कोकिलः पुंलिङ्गः कोकते । इलच् उणादिः अकारान्तः
8 पिक पिकः पुंलिङ्गः कृत् अकारान्तः