अमरकोशः


श्लोकः

पद्माकरस्तडागोऽस्त्री कासार: सरसी सरः । वेशन्त: पल्वलं चाल्पसरो वापी तु दीर्घिका ॥ २८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पद्माकर पद्माकरः पुंलिङ्गः पद्मानामाकरः । तत्पुरुषः समासः समासः अकारान्तः
2 तडाग तडागः पुंलिङ्गः, नपुंसकलिङ्गः तड्यते । आक उणादिः अकारान्तः
3 कासार कासारः पुंलिङ्गः कासते । आरन् उणादिः अकारान्तः
4 सरसी सरसी स्त्रीलिङ्गः असुन् उणादिः ईकारान्तः
5 सरस् सरः नपुंसकलिङ्गः सकारान्तः
6 वेशन्त वेशन्तः पुंलिङ्गः विशन्त्यत्र भेकादयः । झच् उणादिः अकारान्तः
7 पल्वल पल्वलम् पुंलिङ्गः, नपुंसकलिङ्गः पलति पल्यते वा । वलच् उणादिः अकारान्तः
8 अल्पसरस् अल्पसरः नपुंसकलिङ्गः अल्पं च तत्सरश्च ॥ समासः सकारान्तः
9 वापी वापी स्त्रीलिङ्गः उप्यते पद्माद्यस्याम् । इञ् उणादिः ईकारान्तः
10 दीर्घिका दीर्घिका स्त्रीलिङ्गः दीर्घेव । कन् तद्धितः आकारान्तः