अमरकोशः


श्लोकः

पशूनां समजोऽन्येषां समाजोऽथ सधर्मिणाम् । स्यान्निकायः पुञ्जराशी तूत्करः कूटमस्त्रियाम् ॥ ४२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 समज समजः पुंलिङ्गः संवीयतेऽत्र । अप् कृत् अकारान्तः
2 समाज समाजः पुंलिङ्गः संवीयतेऽत्र । घञ् कृत् अकारान्तः
3 निकाय निकायः पुंलिङ्गः निचीयते । घञ् कृत् अकारान्तः
4 पुञ्ज पुञ्जः पुंलिङ्गः पिञ्जयति, पिञ्ज्यते वा । अच् कृत् अकारान्तः
5 राशि राशिः पुंलिङ्गः, स्त्रीलिङ्गः रश्यते । इण् उणादिः इकारान्तः
6 उत्कर उत्करः पुंलिङ्गः उत्कीर्यते । अप् कृत् अकारान्तः
7 कुट कुटः पुंलिङ्गः, नपुंसकलिङ्गः कूटयति । अच् कृत् अकारान्तः