अमरकोशः


श्लोकः

पृष्ठ्य: स्थौरी सित: कर्क: रथ्यो वोढा रथस्य यः । बाल: किशोरो वाम्यश्वा वडवा वाडवं गणे ॥ ४६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पृष्ठ्य पृष्ठ्यः पुंलिङ्गः प्रशस्तमतिशयितं वा पृष्ठमस्य । यप् तद्धितः अकारान्तः
2 स्थौरिन् स्थौरिन् पुंलिङ्गः स्थूलस्येदम् । अण् तद्धितः नकारान्तः
3 कर्क कर्कः पुंलिङ्गः करोति, क्रियते, वा । उणादिः अकारान्तः
4 रथ्य रथ्यः पुंलिङ्गः रथं वहति । यत् तद्धितः अकारान्तः
5 किशोर किशोरः पुंलिङ्गः कशति । ओरन् उणादिः अकारान्तः
6 वामी वामी स्त्रीलिङ्गः वामयति । अच् कृत् ईकारान्तः
7 अश्वा अश्वा स्त्रीलिङ्गः अश्वजातिः । टाप् स्त्रीप्रत्ययः आकारान्तः
8 वडवा वडवा स्त्रीलिङ्गः बलं सामर्थ्यमतिशयितमस्याः । तद्धितः आकारान्तः
9 वाडव वाडवम् नपुंसकलिङ्गः वडवानां समूहः । अञ् तद्धितः अकारान्तः