अमरकोशः


श्लोकः

हैमं छत्रं त्वातपत्रं राज्ञस्तु नृपलक्ष्म तत् । भद्रकुम्भः पूर्णकुम्भः भृङ्गारः कनकालुका ॥ ३२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 छत्र छत्रम् नपुंसकलिङ्गः छादयति । ष्ट्रन् उणादिः अकारान्तः
2 आतपत्र आतपत्रम् नपुंसकलिङ्गः आतपात्त्रायते । कृत् अकारान्तः
3 नपलक्ष्मन् नपलक्ष्मन्म् नपुंसकलिङ्गः नृपस्य लक्ष्म ॥ तत्पुरुषः समासः नकारान्तः
4 भद्रकुम्भ भद्रकुम्भः पुंलिङ्गः भद्रस्य, भद्रो वा कुम्भः ॥ तत्पुरुषः समासः अकारान्तः
5 पूर्णकुम्भ पूर्णकुम्भः पुंलिङ्गः पूर्णः कुम्भः ॥ तत्पुरुषः समासः अकारान्तः
6 भृङ्गार भृङ्गारः पुंलिङ्गः बिभर्ति जलम् । आरन् उणादिः अकारान्तः
7 कनकालुका कनकालुका स्त्रीलिङ्गः कनकस्यालुः । तत्पुरुषः समासः आकारान्तः