अमरकोशः


श्लोकः

वातायनं गवाक्षोऽथ मण्डपोऽस्त्री जनाश्रयः । हर्यादि धनिनां वासः प्रासादो देवभूभुजाम् ॥ ९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वातायन वातायनम् नपुंसकलिङ्गः ईयतेऽनेन । तत्पुरुषः समासः अकारान्तः
2 गवाक्ष गवाक्षः पुंलिङ्गः गवामक्षीव । तत्पुरुषः समासः अकारान्तः
3 मण्डप मण्डपः पुंलिङ्गः, नपुंसकलिङ्गः मण्डनं मण्डः । तत्पुरुषः समासः अकारान्तः
4 जनाश्रय जनाश्रयः पुंलिङ्गः जनानामाश्रयः । तत्पुरुषः समासः अकारान्तः
5 हर्म्य हर्म्यम् नपुंसकलिङ्गः हरति मनः । यत् उणादिः अकारान्तः
6 प्रसाद प्रासादः पुंलिङ्गः प्रसीदति मनोऽत्र । घञ् कृत् अकारान्तः