अमरकोशः


श्लोकः

बालं ह्रीवेरबर्हिष्ठोदीच्यं केशाम्बुनाम च । कालानुसार्यवृद्धाश्मपुष्पशीतशिवानि तु ॥ १२२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वाल वालम् नपुंसकलिङ्गः वालयति । अच् कृत् अकारान्तः
2 ह्रीवेर ह्रीवेरम् नपुंसकलिङ्गः ह्रीयुक्तं वेरमस्य । बहुव्रीहिः समासः अकारान्तः
3 बर्हिष्ठ बर्हिष्ठः नपुंसकलिङ्गः बर्हिषि कुशे तिष्ठति । तत्पुरुषः समासः अकारान्तः
4 उदीच्य उदीच्यम् नपुंसकलिङ्गः उदीचि जातम् । यत् तद्धितः अकारान्तः
5 केषाम्बुनामन् केषाम्बुनाम नपुंसकलिङ्गः केशाम्बुनोर्नाम नाम यस्य ॥ बहुव्रीहिः समासः नकारान्तः
6 कालानुसार्य कालानुसार्यम् नपुंसकलिङ्गः कालेनानुस्रियते । ण्यत् कृत् अकारान्तः
7 वृद्ध वृद्धम् नपुंसकलिङ्गः वर्धते स्म । क्त कृत् अकारान्तः
8 आश्मपुष्प आश्मपुष्पम् नपुंसकलिङ्गः अश्मन: पुष्पमिव । तत्पुरुषः समासः अकारान्तः
9 शीतशिव शीतशिवम् नपुंसकलिङ्गः शीतं च तच्छिवं च ॥ तत्पुरुषः समासः अकारान्तः