अमरकोशः


श्लोकः

नाडी नालं च काण्डोऽस्य पलालोऽस्त्री सनिष्फलः । कडङ्गरो वुसं क्लीबे धान्यत्वचि पुमांस्तुषः ॥ २२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 नाडी नाडी स्त्रीलिङ्गः नलत्यनेन । घञ् कृत् ईकारान्तः
2 नाल नालम् नपुंसकलिङ्गः नलत्यनेन । घञ् कृत् अकारान्तः
3 काण्ड काण्डः पुंलिङ्गः कणति । बाहुलकात् अकारान्तः
4 पलाल पलालः पुंलिङ्गः, नपुंसकलिङ्गः पलति, पल्यते, वा । कालन् उणादिः अकारान्तः
5 कडङ्गर कडङ्गरः पुंलिङ्गः कडस्य गरः । तत्पुरुषः समासः अकारान्तः
6 बुस बुसम् नपुंसकलिङ्गः वुसति । कृत् अकारान्तः
7 धान्यत्वच् धान्यत्वच् स्त्रीलिङ्गः धान्यस्य त्वक् ॥ तत्पुरुषः समासः चकारान्तः
8 तुष तुषः पुंलिङ्गः तुष्यति । कृत् अकारान्तः