अमरकोशः


श्लोकः

मठश्छात्रादिनिलयो गञ्जा तु मदिरागृहम् । गर्भागारं वासगृहमरिष्टं सूतिकागृहम् ॥ ८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मठ मठः पुंलिङ्गः मठन्त्यत्र । घञ् कृत् अकारान्तः
2 गञ्जा गञ्जा स्त्रीलिङ्गः गञ्जन्त्यस्याम् । कृत् आकारान्तः
3 मदिरागृह मदिरागृहम् नपुंसकलिङ्गः मदिराया गृहम् ॥ तत्पुरुषः समासः अकारान्तः
4 गर्भागार गर्भागारम् नपुंसकलिङ्गः गर्भ इवागारम् ॥ अकारान्तः
5 वासगृह वासगृहम् नपुंसकलिङ्गः वासस्य गृहम् ॥ तत्पुरुषः समासः अकारान्तः
6 अरिष्ट अरिष्टम् नपुंसकलिङ्गः नास्ति रिष्टमत्र । तत्पुरुषः समासः अकारान्तः
7 सूतिकागृह सूतिकागृहम् नपुंसकलिङ्गः सूतैव सूतिका । तत्पुरुषः समासः अकारान्तः