अमरकोशः


श्लोकः

जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा । कूर्चशीर्षो मधुरकः शृङ्गह्रस्वाङ्गजीवका: ॥ १४२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 जीवन्ती जीवन्ती स्त्रीलिङ्गः जीवति । शतृ कृत् ईकारान्तः
2 जीवनी जीवनी स्त्रीलिङ्गः जीव्यतेऽनया । ल्युट् कृत् ईकारान्तः
3 जीवा जीवा स्त्रीलिङ्गः जीवयति । अच् कृत् आकारान्तः
4 जीवनीया जीवनीया स्त्रीलिङ्गः जीवनाय हिता । तद्धितः आकारान्तः
5 मधु मधुः स्त्रीलिङ्गः मन्यते । उणादिः उकारान्तः
6 स्रवा स्रवा स्त्रीलिङ्गः स्रवति । अच् कृत् आकारान्तः
7 कूर्चशीर्ष कूर्चशीर्षः पुंलिङ्गः कूर्चं श्मश्रु । तद्वच्छीर्षमस्य ॥ बहुव्रीहिः समासः अकारान्तः
8 मधुरक मधुरकः पुंलिङ्गः मधुर एव । कन् तद्धितः अकारान्तः
9 शृङ्ग शृङ्गः पुंलिङ्गः शृणाति । गन् उणादिः अकारान्तः
10 ह्रस्वाङ्ग ह्रस्वाङ्गः पुंलिङ्गः ह्रस्वान्यङ्गान्यस्याः ॥ बहुव्रीहिः समासः अकारान्तः
11 जीवक जीवकः पुंलिङ्गः जीवयति । ण्वुल् कृत् अकारान्तः