अमरकोशः


श्लोकः

मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः । कंदर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः॥२५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मदन मदनः पुंलिङ्गः मदयति । ल्यु कृत् अकारान्तः
2 मन्मथ मन्मथः पुंलिङ्गः मतो मथः = मन्मथः । तत्पुरुषः समासः अकारान्तः
3 मार मारः पुंलिङ्गः म्रियन्तेऽनेन । घञ् कृत् अकारान्तः
4 प्रद्युम्न प्रद्युम्नः पुंलिङ्गः प्रकृष्टं द्युम्नं बलमस्य । बहुव्रीहिः समासः अकारान्तः
5 मीनकेतन मीनकेतनः पुंलिङ्गः मीनो मकरः केतनं ध्वजो यस्य । बहुव्रीहिः समासः अकारान्तः
6 कन्दर्प कन्दर्पः पुंलिङ्गः कम्' इत्यव्यये कुत्सायाम् । कुत्सितो दर्पोऽस्य कंदर्पः । तत्पुरुषः समासः अकारान्तः
7 दर्पक दर्पकः पुंलिङ्गः दर्पयति । ण्वुल् कृत् अकारान्तः
8 अनङ्ग अनङ्गः पुंलिङ्गः नास्त्यङ्गमस्य, न अङ्गं ज्ञानमस्मादिति वा । तत्पुरुषः समासः अकारान्तः
9 काम कामः पुंलिङ्गः काम्यतेऽनेन । कृत् अकारान्तः
10 पञ्चशर पञ्चशरः पुंलिङ्गः पञ्च शरा अस्य । बहुव्रीहिः समासः अकारान्तः
11 स्मर स्मरः पुंलिङ्गः स्मरयत्युत्कण्ठयति । अच् कृत् अकारान्तः