अमरकोशः


श्लोकः

कपौ च प्लवगः शापे त्वभिषङ्गः पराभवे । यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु ॥ २४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्लवग प्लवगः पुंलिङ्गः प्लवेन गच्छति कृत् अकारान्तः
2 अभिषङ्ग अभिषङ्गः पुंलिङ्गः अभिषञ्जनम् घञ् कृत् अकारान्तः
3 युग युगः पुंलिङ्गः योजनम्, युज्यते वा घञ् कृत् अकारान्तः
4 युग युगम् नपुंसकलिङ्गः अकारान्तः