अमरकोशः


श्लोकः

गोमहिष्यादिकं पादबन्धनं द्वौ गवीश्वरे । गोमान् गोमी गोकुलं तु गोधनं स्याद्गवां व्रजे ॥ ५८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पादबन्धन पादबन्धनम् नपुंसकलिङ्गः पादे बन्धनमस्य । बहुव्रीहिः समासः अकारान्तः
2 गवीश्वर गवीश्वरः पुंलिङ्गः गवामीश्वरः ॥ तत्पुरुषः समासः अकारान्तः
3 गोमत् गोमत् पुंलिङ्गः बहवो गावोऽस्य । मतुप् तद्धितः तकारान्तः
4 गोमिन् गोमिन् पुंलिङ्गः मिनि तद्धितः नकारान्तः
5 गोकुल गोकुलम् नपुंसकलिङ्गः गवां कुलम् ॥ तत्पुरुषः समासः अकारान्तः
6 गोधन गोधनम् नपुंसकलिङ्गः गवां धनं समूहः । तत्पुरुषः समासः अकारान्तः