अमरकोशः


श्लोकः

शुक्रं तेजो रेतसी च बीजवीर्येन्द्रियाणि च । मायुः पित्तं कफ: श्लेष्मा स्त्रियां तु त्वगसृग्धरा ॥ ६२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शुक्र शुक्रम् नपुंसकलिङ्गः शोचत्यनेन । रन् उणादिः अकारान्तः
2 तेजस् तेजः नपुंसकलिङ्गः तेजयति । असुन् उणादिः सकारान्तः
3 रेतस् रेतः नपुंसकलिङ्गः रिणाति । असुन् उणादिः सकारान्तः
4 बीज बीजम् नपुंसकलिङ्गः विशेषेण ईजते । अच् कृत् अकारान्तः
5 वीर्य वीर्यम् नपुंसकलिङ्गः वीरेऽक्लीबे साधुः । यत् तद्धितः अकारान्तः
6 इन्द्रिय इन्द्रियम् नपुंसकलिङ्गः इन्द्रस्यात्मनो लिङ्गम् । घच् तद्धितः अकारान्तः
7 मायु मायुः पुंलिङ्गः मिनोति देह ऊष्माणम् । उण् उणादिः उकारान्तः
8 पित्त पित्तम् नपुंसकलिङ्गः अपिदीयते स्म । क्त कृत् अकारान्तः
9 कफ कफः पुंलिङ्गः केन जलेन फलति । कृत् अकारान्तः
10 श्लेष्मन् श्लेष्मन् पुंलिङ्गः श्लिष्यति । मनिन् उणादिः नकारान्तः
11 त्वच् त्वच् स्त्रीलिङ्गः त्वचति । क्विप् कृत् चकारान्तः
12 असृग्धरा असृग्धरा स्त्रीलिङ्गः असृजो रक्तस्य धरा । तत्पुरुषः समासः आकारान्तः