अमरकोशः


श्लोकः

पृषदाज्यं सदध्याज्ये परमान्नं तु पायसम् । हव्यकव्ये दैवपैत्रे अन्ने पात्रं स्रुवादिकम् ॥ २४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पृषदाज्य पृषदाज्यम् नपुंसकलिङ्गः पर्षति, पृष्यते वा । तत्पुरुषः समासः अकारान्तः
2 परमान्न परमान्नम् नपुंसकलिङ्गः परमं च तदन्नं च । तत्पुरुषः समासः अकारान्तः
3 पायस पायसः पुंलिङ्गः, नपुंसकलिङ्गः पयसि संस्कृतम् । अण् तद्धितः अकारान्तः
4 हव्य हव्यम् नपुंसकलिङ्गः हूयन्ते प्रीण्यन्ते देवा येन । यत् कृत् अकारान्तः
5 कव्य कव्यम् नपुंसकलिङ्गः कृयते पितृभ्यः । यत् कृत् अकारान्तः
6 पात्र पात्रः पुंलिङ्गः, नपुंसकलिङ्गः पाति, पिबत्यनेन वा । ष्ट्रन् उणादिः अकारान्तः