अमरकोशः


श्लोकः

द्विपाद्यो द्विगुणो दण्ड भागधेयः करो बलिः । घट्टादिदेयं शुल्कोऽस्त्री प्राभृतं तु प्रदेशनम् ॥ २७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 द्विपाद्य द्विपाद्यः पुंलिङ्गः द्वौ पादौ परिमाणमस्य । यत् तद्धितः अकारान्तः
2 भागधेय भागधेयः पुंलिङ्गः धेय तद्धितः अकारान्तः
3 कर करः पुंलिङ्गः कीर्यते । अप् कृत् अकारान्तः
4 बलि बलिः पुंलिङ्गः बल्यते । इन् उणादिः इकारान्तः
5 शुल्क शुल्कः पुंलिङ्गः, नपुंसकलिङ्गः शुल्क्यते । घञ् कृत् अकारान्तः
6 प्राभृत प्राभृतम् नपुंसकलिङ्गः प्राभ्रियते स्म । क्त कृत् अकारान्तः
7 प्रदेशन प्रदेशनम् नपुंसकलिङ्गः प्रदिश्यते । ल्युट् कृत् अकारान्तः