अमरकोशः


श्लोकः

पूज्य: प्रतीक्ष्य: सांशयिक: संशयापन्नमानसः । दक्षिणेयो दक्षिणार्हस्तत्र दक्षिण्य इत्यपि ॥ ५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पूज्य पूज्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पूज्यते । यत् कृत् अकारान्तः
2 प्रतीक्ष्य प्रतीक्ष्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रतीक्ष्यते । ण्यत् कृत् अकारान्तः
3 सांशयिक सांशयिकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः संशयमापन्नः । ठक् तद्धितः अकारान्तः
4 संशयापन्नः संशयापन्नः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः संशयमापन्नं यस्य, यस्मिन्, वा ॥ तत्पुरुषः समासः
5 दक्षिणीयः दक्षिणीयः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दक्षिणामर्हति । तद्धितः
6 दक्षिणार्ह दक्षिणार्हः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दक्षिणामर्हति । तत्पुरुषः समासः अकारान्तः
7 दक्षिण्य दक्षिण्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दक्षिणामर्हति । यत् तद्धितः अकारान्तः