अमरकोशः


श्लोकः

संगूढः स्यात्सङ्कलितोऽवगीत: ख्यातगर्हणः । विविधः स्वाद्वहुविधो नानारूप: पृथग्विध: ॥ ९३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 संगूढ संगूढः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः संगुह्यते स्म क्त कृत् अकारान्तः
2 संकलित संकलितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः संकल्यते स्म क्त कृत् अकारान्तः
3 अवगीत अवगीतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अवगीयते स्म क्त कृत् अकारान्तः
4 ख्यागर्हण ख्यागर्हणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ख्याता गर्हणा यस्य बहुव्रीहिः समासः अकारान्तः
5 विविध विविधः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विचित्रा विधा यस्य बहुव्रीहिः समासः अकारान्तः
6 बहुविध बहुविधः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः बहवो विधा यस्य बहुव्रीहिः समासः अकारान्तः
7 नानारूप नानारूपः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नाना रूपमस्य बहुव्रीहिः समासः अकारान्तः
8 पृथग्विध पृथग्विधः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पृथग् विधा यस्य बहुव्रीहिः समासः अकारान्तः