अमरकोशः


श्लोकः

सतीर्थ्यास्त्वेकगुरवश्चितवानग्निमग्निचित् । पारम्पर्योपदेशे स्यादैतिह्यमितिहाव्ययम् ॥ १२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सतीर्थ्य सतीर्थ्यः पुंलिङ्गः समाने तीर्थे वसन्ति । यत् तद्धितः अकारान्तः
2 एकगुरु एकगुरुः पुंलिङ्गः एको गुरुर्येषां ते ॥ बहुव्रीहिः समासः उकारान्तः
3 अग्निचित् अग्निचित् पुंलिङ्गः अग्निमचैषीत् । क्विप् कृत् तकारान्तः
4 ऐतिह्य ऐतिह्यम् नपुंसकलिङ्गः ण्य तद्धितः अकारान्तः
5 इतिह इतिहः अव्ययम् द्वन्द्वः समासः अकारान्तः