अमरकोशः


श्लोकः

स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः । अन्ती नाशो द्वयोर्मृत्युर्मरणं निधनोऽस्त्रियाम् ॥ ११६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पञ्चता पञ्चता स्त्रीलिङ्गः पञ्चानां भावः । तल् तद्धितः आकारान्तः
2 कालधर्म कालधर्मः पुंलिङ्गः कालस्य धर्मः ॥ तत्पुरुषः समासः अकारान्तः
3 दिष्टान्त दिष्टान्तः पुंलिङ्गः दिष्टस्य दैवस्यान्तः ॥ तत्पुरुषः समासः अकारान्तः
4 प्रलय प्रलयः पुंलिङ्गः प्रलयनम् अच् कृत् अकारान्तः
5 अत्यय अत्ययः पुंलिङ्गः अत्ययनम् । अच् कृत् अकारान्तः
6 अन्त अन्तः पुंलिङ्गः अन्तनम् । घञ् कृत् अकारान्तः
7 नाश नाशः पुंलिङ्गः घञ् कृत् अकारान्तः
8 मृत्यु मृत्युः पुंलिङ्गः, स्त्रीलिङ्गः मरणम् । त्युक् उणादिः उकारान्तः
9 मरण मरणम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
10 निधन निधनः पुंलिङ्गः, नपुंसकलिङ्गः निधानम् । क्यु उणादिः अकारान्तः