अमरकोशः


श्लोकः

कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति । तिग्मं तीक्ष्णं खरं तद्वत् मृगतृष्णा मरीचिका ॥ ३५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कोष्ण कोष्णम् नपुंसकलिङ्गः ईषदुष्णं कोष्णम् । तत्पुरुषः समासः अकारान्तः
2 कवोष्ण कवोष्णम् नपुंसकलिङ्गः ईषदुष्णं कवोष्णम् । तत्पुरुषः समासः अकारान्तः
3 मन्दोष्ण मन्दोष्णम् नपुंसकलिङ्गः मन्दं च तदुष्णं च । तत्पुरुषः समासः अकारान्तः
4 कदुष्ण कदुष्णम् नपुंसकलिङ्गः कदादेशश्च । तत्पुरुषः समासः अकारान्तः
5 तिग्म तिग्मम् नपुंसकलिङ्गः तेजयति । मक् उणादिः अकारान्तः
6 तीक्ष्ण तीक्ष्णम् नपुंसकलिङ्गः तीक्ष्णं सामुद्रलवणे विषलोहाजिमुष्कके । क्स्न उणादिः अकारान्तः
7 खर खरम् नपुंसकलिङ्गः खमिन्द्रियं रात्यभिभवति । कृत् अकारान्तः
8 मृगतृष्णा मृगतृष्णा स्त्रीलिङ्गः मृगाणां तृष्णास्त्यस्याम् । अच् तद्धितः आकारान्तः
9 मरीचिका मरीचिका स्त्रीलिङ्गः मरीचिरिव । कन् तद्धितः आकारान्तः