अमरकोशः


श्लोकः

शिक्षेत्यादि श्रुतेरङ्गमोङ्कारप्रणवौ समौ । इतिहासः पुरावृत्तमुदात्ताद्यास्त्रयः स्वरा: ॥ ४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शिक्षा शिक्षा स्त्रीलिङ्गः श्रुतेर्वेदस्य शिक्षेत्याद्यङ्गम् । कृत् आकारान्तः
2 ओङ्कार ओङ्कारः पुंलिङ्गः अवति । मन् उणादिः अकारान्तः
3 प्रणव प्रणवः पुंलिङ्गः प्रणूयते स्तूयते । अप् कृत् अकारान्तः
4 इतिहास इतिहासः पुंलिङ्गः घञ् कृत् अकारान्तः
5 पुरावृत्त पुरावृत्तम् नपुंसकलिङ्गः पुरावृत्तमाचष्टे पुरावृत्तम् । अकारान्तः
6 उदात्त स्वरः पुंलिङ्गः अकारान्तः