अमरकोशः


श्लोकः

मुक्ताऽथ विद्रुमः पुंसि प्रवालं पुंनपुंसकम् । रत्नं मणिर्द्वयोरश्मजातौ मुक्तादिकेऽपि च ॥ ९३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मुक्ता मुक्ता स्त्रीलिङ्गः मुच्यते स्म । क्त कृत् आकारान्तः
2 विद्रुम विद्रुमः पुंलिङ्गः विशिष्टो द्रुमः । तत्पुरुषः समासः अकारान्तः
3 प्रवाल प्रवालः पुंलिङ्गः, नपुंसकलिङ्गः प्रबलति । कृत् अकारान्तः
4 रत्न रत्नम् नपुंसकलिङ्गः रमन्तेऽस्मिन् । कप् बाहुलकात् अकारान्तः
5 मणि मणिः पुंलिङ्गः, स्त्रीलिङ्गः मण्यते इन् उणादिः इकारान्तः