अमरकोशः


श्लोकः

लज्जाशीलोऽपत्रपिष्णुः वन्दारुरभिवादके । शरारुर्घातुको हिंस्रः स्याद्वर्धिष्णुश्च वर्धन: ॥ २८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 लज्जाशील लज्जाशीलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः लज्जा शीलमस्य ॥ बहुव्रीहिः कृत् अकारान्तः
2 अपत्रविष्णु अपत्रविष्णुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अपत्रपते । इष्णुच् कृत् उकारान्तः
3 वन्दारु वन्दारुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वन्दते । आरु कृत् उकारान्तः
4 अभिवादक अभिवादकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अभिवादयति । ण्वुल् कृत् अकारान्तः
5 शरारु शरारुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शृणाति । आरु कृत् उकारान्तः
6 घातुक घातुकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः हन्ति । उकञ् कृत् अकारान्तः
7 हिंस्र हिंस्रः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः हिनस्ति । कृत् अकारान्तः
8 वर्धिष्णु वर्धिष्णुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वर्धते । इष्णुच् कृत् उकारान्तः
9 वर्धन वर्धनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वर्धते । युच् कृत् अकारान्तः