अमरकोशः


श्लोकः

दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः । मतङ्गजो गजो नागः कुञ्जरो वारण: करी ॥ ३४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 दन्तिन् दन्ती पुंलिङ्गः अतिशयितौ दन्तावस्य । इनि तद्धितः नकारान्तः
2 दन्तावल दन्तावलः पुंलिङ्गः अतिशयितौ दन्तावस्य । वलच् तद्धितः अकारान्तः
3 हस्तिन् हस्ती पुंलिङ्गः हस्तः शुण्डास्यास्ति । इनि तद्धितः नकारान्तः
4 द्विरद द्विरदः पुंलिङ्गः द्वौ रदावस्य ॥ बहुव्रीहिः समासः अकारान्तः
5 अनेकप अनेकपः पुंलिङ्गः अनेकेन करेण मुखेन च पिबति । कृत् अकारान्तः
6 द्विप द्विपः पुंलिङ्गः द्वाभ्यां पिबति । कृत् अकारान्तः
7 मतङ्गज मतङ्गजः पुंलिङ्गः कृत् अकारान्तः
8 गज गजः पुंलिङ्गः गजति । अच् कृत् अकारान्तः
9 नाग नागः पुंलिङ्गः न अगः । अण् तद्धितः अकारान्तः
10 कुञ्जर कुञ्जरः पुंलिङ्गः अतिशयितः कुञ्जो हनुरस्य । तद्धितः अकारान्तः
11 वारण वारणः पुंलिङ्गः वारयति शत्रुबलम् । ल्यु कृत् अकारान्तः
12 करिन् करी पुंलिङ्गः करोऽस्यास्ति । इनि तद्धितः नकारान्तः