अमरकोशः


श्लोकः

सांयात्रिकः पोतवणिक् कर्णधारस्तु नाविकः । नियामकाः पोतवाहा: कूपको गुणवृक्षकः ॥ १२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सांयात्रिक सांयात्रिकः पुंलिङ्गः समुदितानां गमनं द्वीपान्तरगमनं वा संयात्रा । सा प्रयोजनमस्य । ठञ् तद्धितः अकारान्तः
2 पोतवणिज् पोतवणिक् पुंलिङ्गः पोतेनोपलक्षितो वणिक् ॥ जकारान्तः
3 कर्णधार कर्णधारः पुंलिङ्गः ’कर्णः श्रोत्रमरित्रं च' इति दुर्गः । तं धरति । अण् कृत् अकारान्तः
4 नाविक नाविकः पुंलिङ्गः नावा तरति । ठन् अकारान्तः
5 नियामक नियामकः पुंलिङ्गः नियच्छन्ति पोतम् । ण्वुल् कृत् अकारान्तः
6 पोतवाह पोतवाहः पुंलिङ्गः पोतं वहन्ति । अण् कृत् अकारान्तः
7 कूपक कूपकः पुंलिङ्गः कूपेति । कः कृत् अकारान्तः
8 गुणवृक्षक गुणवृक्षकः पुंलिङ्गः गुणानां रज्जूनां वृक्षः । कन् तद्धितः अकारान्तः