अमरकोशः


श्लोकः

कानीनः कन्यकाजातः सुतोऽथ सुभगासुतः । सौभागिनेयः स्यात्पारस्त्रैणेयस्तु परस्त्रिया: ॥ २४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कानीन कानीनः पुंलिङ्गः कन्याया अपत्यम् । अण् तद्धितः अकारान्तः
2 कन्यकाजात कन्यकाजातः पुंलिङ्गः कन्यकया जातः ॥ तत्पुरुषः समासः अकारान्तः
3 सुभगासुत सुभगासुतः पुंलिङ्गः सुभगायाः सुतः ॥ तत्पुरुषः समासः अकारान्तः
4 सौभागिनेय सौभागिनेयः पुंलिङ्गः सुभगाया अपत्यम् । ढक् तद्धितः अकारान्तः
5 पारस्त्रैणेय पारस्त्रैणेयः पुंलिङ्गः परस्त्रिया अपत्यम् । ढक् तद्धितः अकारान्तः