अमरकोशः


श्लोकः

परिकर्माङ्गसंस्कारः स्यान्मार्ष्टिर्मार्जना मृजा । उद्वर्तनोत्सादने द्वे समे आप्लाव आप्लव: ॥ १२१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 परिकर्मन् परिकर्मन्म् नपुंसकलिङ्गः तत्पुरुषः समासः नकारान्तः
2 अङ्गसंस्कार अङ्गसंस्कारः पुंलिङ्गः अङ्गं संस्क्रियतेऽनेन । घञ् कृत् अकारान्तः
3 मार्ष्टि मार्ष्टिः स्त्रीलिङ्गः मार्जनम् । क्तिन् कृत् इकारान्तः
4 मार्जना मार्जना स्त्रीलिङ्गः युच् कृत् आकारान्तः
5 मृजा मृजा स्त्रीलिङ्गः अङ् कृत् आकारान्तः
6 उद्वर्तन उद्वर्तनम् नपुंसकलिङ्गः उद्वर्त्यतेऽनेन । ल्युट् कृत् अकारान्तः
7 उत्सादन उत्सादनम् नपुंसकलिङ्गः उत्साद्यतेऽनेन । ल्युट् कृत् अकारान्तः
8 आप्लाव आप्लावः पुंलिङ्गः आप्लवनम् । घञ् कृत् अकारान्तः
9 आप्लव आप्लवः पुंलिङ्गः अप् कृत् अकारान्तः