अमरकोशः


श्लोकः

ज्योत्स्नी पटोलिका जाली नादेयी भूमिजम्बुका । स्याल्लाङ्गलिक्यग्निशिखा काकाङ्गी काकनासिका ॥ ११८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ज्यौत्स्नी ज्यौत्स्नी स्त्रीलिङ्गः ज्योत्स्नास्त्यस्याः अण् तद्धितः ईकारान्तः
2 पटोलिका पटोलिका स्त्रीलिङ्गः पटति । ओलच् उणादिः आकारान्तः
3 जाली जाली स्त्रीलिङ्गः जलति । कृत् ईकारान्तः
4 नादेयी नादेयी स्त्रीलिङ्गः नद्यां भवा । ढक् तद्धितः ईकारान्तः
5 भूमिजम्बुका भूमिजम्बुका स्त्रीलिङ्गः भूमिलग्ना जम्बुका । तत्पुरुषः समासः आकारान्तः
6 लाङ्गलिकी लाङ्गलिकी स्त्रीलिङ्गः लाङ्गलं पुष्पविशेषोऽस्त्यस्याः । ठन् तद्धितः ईकारान्तः
7 अग्निशिखा अग्निशिखा स्त्रीलिङ्गः अग्नेरिव शिखास्याः । बहुव्रीहिः समासः आकारान्तः
8 काकाङ्गी काकाङ्गी स्त्रीलिङ्गः काकस्येवाङ्गं नासारूपं फलमस्याः बहुव्रीहिः समासः ईकारान्तः
9 काकनासिका काकनासिका स्त्रीलिङ्गः काकस्येव नासिका यस्याः ॥ बहुव्रीहिः समासः आकारान्तः