अमरकोशः


श्लोकः

लोहपृष्ठस्तु कङ्कः स्यादथ चाष: किकीदिविः । कलिङ्गभृङ्गधूम्याटा अथ स्याच्छतपत्रकः ॥ १६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 लोहपृष्ठ लोहपृष्ठः पुंलिङ्गः लोहमिव पृष्ठमस्य ॥ बहुव्रीहिः समासः अकारान्तः
2 कङ्क कङ्कः पुंलिङ्गः कङ्कते । अच् कृत् अकारान्तः
3 चाष चाषः पुंलिङ्गः चाषयति । अच् कृत् अकारान्तः
4 किकीदिवी किकीदिविः पुंलिङ्गः ‘किकी' इति दीव्यति वाशते । क्विन् उणादिः ईकारान्तः
5 कलिङ्ग कलिङ्गः पुंलिङ्गः के मूर्ध्नि लिङ्गं चूडास्य । बहुव्रीहिः समासः अकारान्तः
6 भृङ्ग भृङ्गः पुंलिङ्गः भृङ्ग इव । कृष्णत्वात् । तत्पुरुषः समासः अकारान्तः
7 धूम्याट धूम्याटः पुंलिङ्गः धूम्या धूमसमूह इवाटति । अच् कृत् अकारान्तः
8 शतपत्त्रक शतपत्त्रकः पुंलिङ्गः शतं पत्राण्यस्य ॥ बहुव्रीहिः समासः अकारान्तः