अमरकोशः


श्लोकः

सृणिका स्यन्दिनी लाला दूषिका नेत्रयोर्मलम् । मूत्रं प्रस्राव उच्चारावस्करौ शमलं शकृत् ॥ ६७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सृणिका सृणिका स्त्रीलिङ्गः स्त्रिति । नि उणादिः आकारान्तः
2 स्यन्दिनी स्यन्दिनी स्त्रीलिङ्गः अवश्यं स्यन्दते । णिनि कृत् ईकारान्तः
3 लाला लाला स्त्रीलिङ्गः लालयते । अच् कृत् आकारान्तः
4 दूषिका दूषिका स्त्रीलिङ्गः दूषयति । ण्वुल् कृत् आकारान्तः
5 मूत्र मूत्रम् नपुंसकलिङ्गः मूत्र्यते । घञ् कृत् अकारान्तः
6 प्रस्राव प्रस्रावः पुंलिङ्गः प्रस्रूयते । घञ् कॄत् अकारान्तः
7 उच्चार उच्चारः पुंलिङ्गः उच्चार्यते त्यज्यते । घञ् कॄत् अकारान्तः
8 अवस्कर अवस्करः पुंलिङ्गः अवकीर्यते अधः क्षिप्यते । अप् कृत् अकारान्तः
9 शमल शमलम् नपुंसकलिङ्गः शाम्यति, शम्यते वा । कल उणादिः अकारान्तः
10 शकृत् शकृत्म् नपुंसकलिङ्गः शक्नोति, शक्यते वा निःसर्तुं निःसारयितुं वा । ऋतिन् उणादिः तकारान्तः