अमरकोशः


श्लोकः

छिद्रं निर्व्यथनं रोकं रन्धं श्वभ्रं वपा शुषिः । गर्तावटौ भुवि श्वभ्रे सरन्ध्रे शुषिरं त्रिषु ॥ २ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 छिद्र छिद्रम् नपुंसकलिङ्गः छिद्यते । रक् उणादिः अकारान्तः
2 निर्व्यथन निर्व्यथनम् नपुंसकलिङ्गः निश्चयेन व्यथनं भयं चलनं वा यत्र । ल्युट् कृत् अकारान्तः
3 रोक रोकम् नपुंसकलिङ्गः रोचतेऽत्र । घञ् कृत् अकारान्तः
4 रन्ध्र रन्ध्रम् नपुंसकलिङ्गः रमणम् । क्विप् कृत् अकारान्तः
5 श्वभ्र श्वभ्रम् नपुंसकलिङ्गः व्यन्तात्पचाद्यच् । अच् कृत् अकारान्तः
6 वपा वपा स्त्रीलिङ्गः उप्यतेऽत्र आकारान्तः
7 शुषि शुषिः स्त्रीलिङ्गः शुष्यत्यत्र । इन् उणादिः इकारान्तः
8 गर्त गर्तः पुंलिङ्गः, स्त्रीलिङ्गः गर्तेति। तन् उणादिः अकारान्तः
9 अवट अवटः पुंलिङ्गः अवन्त्यस्मात् । अटन् उणादिः अकारान्तः
10 शुषिर शुषिरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः रः अकारान्तः