अमरकोशः


श्लोकः

विमर्दोत्थे परिमलो गन्धे जनमनोहरे । आमोदः सोऽतिनिर्हारी वाच्यलिङ्गत्वमागुणात् ॥ १० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 परिमल परिमलः पुंलिङ्गः विमर्दोत्थ इति । घञ् कृत् अकारान्तः
2 आमोद आमोदः पुंलिङ्गः आसमन्तान्मोदयति, इत्यामोदः । अच् कृत् अकारान्तः