अमरकोशः


श्लोकः

गोदारणं च सीरोऽथ शम्या स्त्री युगकीलक: । ईषा लाङ्गलदण्ड: स्यात्सीता लाङ्गलपद्धतिः ॥ १४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गोदारण गोदारणम् नपुंसकलिङ्गः गां भूमिं दारयति । ल्युट् कृत् अकारान्तः
2 सीर सीरः पुंलिङ्गः सिनोति, सीयते, वा । क्रन् उणादिः अकारान्तः
3 शम्या शम्या स्त्रीलिङ्गः शम्यतेऽनया । यक् उणादिः आकारान्तः
4 युगकीलक युगकीलकः पुंलिङ्गः युगस्य कीलः । तत्पुरुषः समासः अकारान्तः
5 ईशा ईशा स्त्रीलिङ्गः ईति । कृत् आकारान्तः
6 लाङ्गलदण्ड लाङ्गलदण्डः पुंलिङ्गः लाङ्गलस्य दण्डः ॥ तत्पुरुषः समासः अकारान्तः
7 सीता सीता स्त्रीलिङ्गः सीयते । क्त कृत् आकारान्तः
8 लाङ्गपद्धति लाङ्गपद्धतिः स्त्रीलिङ्गः लाङ्गलस्य पद्धतिः ॥ तत्पुरुषः समासः इकारान्तः