अमरकोशः


श्लोकः

उक्षा महान्महोक्षः स्याद् वृद्धोक्षस्तु जरद्गवः । उत्पन्न उक्षा जातोक्षः सद्योजातस्तु तर्णकः ॥ ६१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 महोक्ष महोक्षः पुंलिङ्गः महांश्वासावुक्षा च । तत्पुरुषः समासः अकारान्तः
2 वृद्धोक्ष वृद्धोक्षः पुंलिङ्गः वृद्धश्चासावुक्षा च तत्पुरुषः समासः अकारान्तः
3 जरद्गव जरद्गवः पुंलिङ्गः जरंश्चासौ गौश्च । तत्पुरुषः समासः अकारान्तः
4 जातोक्ष जातोक्षः पुंलिङ्गः जातश्चासावुक्षा च । तत्पुरुषः समासः अकारान्तः
5 तर्णक तर्णकः पुंलिङ्गः तृणोति । ण्वुल् कृत् अकारान्तः