अमरकोशः


श्लोकः

किराततिक्तो भूनिम्बोऽनार्यतिक्तोऽथ सप्तला । विमला सातला भूरिफेना चर्मकषेत्यपि ॥ १४३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 किराततिक्त किराततिक्तः पुंलिङ्गः किरातदेशोऽस्ति जन्मस्थानमस्य । अच् तद्धितः अकारान्तः
2 भूनिम्ब भूनिम्बः पुंलिङ्गः भुवो निम्ब इव ॥ बहुव्रीहिः समासः अकारान्तः
3 अनार्यतिक्त अनार्यतिक्तः पुंलिङ्गः अनार्यप्रियश्चासौ तिक्तश्च । तत्पुरुषः समासः अकारान्तः
4 सप्तला सप्तला स्त्रीलिङ्गः सप्त लाति । कृत् आकारान्तः
5 विमला विमला स्त्रीलिङ्गः विगता मला यया । बहुव्रीहिः समासः आकारान्तः
6 सातला सातला स्त्रीलिङ्गः सातं सुखं लाति । कृत् आकारान्तः
7 भूरिफेना भूरिफेना स्त्रीलिङ्गः भूरयः फेना यस्याः ॥ बहुव्रीहिः समासः आकारान्तः
8 चर्मकषा चर्मकषा स्त्रीलिङ्गः चर्मणः कषा ॥ तत्पुरुषः समासः आकारान्तः